Astadhyayi Sahajbodh अष्टाध्यायी सहजबोध
₹2,500.00
Please fill in the fields below with the shipping destination details in order to calculate the shipping cost.
₹2,500.00
Please fill in the fields below with the shipping destination details in order to calculate the shipping cost.
Weight | 5000 kg |
---|
ग्रन्थमिमधिकृत्य किञ्चित्नभस्यादित्यं परितो ग्रहा इव बम्भ्रमीतिनिखिलो वैदिको लौकिकश्च शब्दराशिःपाणिन्यष्यध्यार्थी परितः। भगवता पाणिनिनामहति समाधियोग आस्थायास्य निखिलशब्दराशे: प्रत्यक्षमेककालावच्छेदेन कृतमत एवतत्र न किमपि रिष्यति। अत्राष्टस्वध्यायेषुविभक्तानि सूत्राणि शब्दस्यान्तः प्रविश्य, प्रकृतिंप्रत्ययं च विभज्य, तत्रत्यं सर्व प्रकाशयन्ति । एतत्सर्वमद्भुतमिव यद् भगवता पाणिनिना शब्दानांसिद्ध्यर्थ शब्दा नोक्ता अपितु तत्रत्यानलोपागमवर्णविकारान् मनस्याकलय्यैकैकस्यकार्यस्य कृते सूत्राणि प्रोक्तानि। तानि चसूत्राण्यधिकारेषु प्रकरणेषु च निबद्धानि सन्ति।एकैकस्मिन् प्रकरण एकैकं कार्यं नि:शेषीक्रियते,येन तद्विषयिविचिकित्साव्यपोहो जायते। सन्तिचैतानि प्रकरणान्यष्टाध्याय्यां तिलतण्डुलवद्विभक्तानि, येषां विज्ञानेन शब्दसाक्षात्कारोभवति । महता देवेन सायुज्यमप्यनेनैवाधिगम्यते ।अधिकाराणां, प्रकरणानां च विज्ञानं विहायाष्टाध्यायीसूत्रपाठोऽपि निगदेनैव शब्द्यमान: कामान्दोग्धं नालं भवति, का कथा पुनरष्टाध्याय विनाप्रक्रियाग्रन्थेषु कृतस्यान्धयत्नस्य।सर्वेषाशाख्त्राणां मुखं व्याकरणम्। तस्माच्चबिभेति लोकः प्रक्रियाकाठिन्यात्। अतोमयाष्टाध्याय्या: स्वत: प्रकाशित : पन्था:प्रकरणानां विभाजनं प्रदर्य सर्वदृग्गोचरीकृतः।पाणिनेरिदं महत्सुविहितं सामान्यविशेषवल्लक्षणमाश्रित्य विश्वस्य कापि भाषा व्याकरतृुशक्यते अतः सर्ववेदपारिषदं हीदं शास्त्रं ।
इह खलु लोकव्यवहारनिर्वहणार्थं भाषैव जुषते प्रधानभावम्। अन्तरेण भाषां लोका न प्रभवन्ति नैजमाशयं प्रकाशयितुम् । अप्रकाशयन्तश्चाशयं कथमिव ते पारयेयुः किञ्चिदनुष्ठातुम् । किञ्चिदनुष्ठातुमशक्नुवतां तेषां कृते सकलं जगदेवान्धकारमयम्भवेत् । अतएव स्पष्टमाचष्ट तत्रभवान् आचार्यप्रवरो दण्डिमहाभागः
इदमन्धतमः कृत्स्नं जायेत भुवनत्रयम् ।
यदि शब्दाह्वयं ज्योतिरासंसारं न दीप्यते ।। इति ।
भाषयापि तया पुनः सुसंस्कृतया भवितव्यम् परत्राशयं सङ्क्रमयितुम् । सुसंस्कृता भाषा च शब्दसाधुत्वमपेक्षते। साधुशब्दा हि प्रयुज्यमाना यथार्थमर्थमर्पयन्ति नासाधुशब्दाः। साधुशब्दप्रयोगे तु व्याकरणाध्ययनं हि प्रधानं प्रयोजकम्। न हि व्याकरणज्ञानरहितः साधुशब्दान् प्रयोक्तुं क्षमः। उक्तञ्च रामायणे
नूनं व्याकरणं कृत्स्नमनेन बहुधा श्रुतम्। बहु व्याहरताऽनेन न किञ्चिदपभाषितम् ।।
इत्यनेन हनुमतो वाग्व्यापारेण तस्य व्याकरणपारङ्गतत्वं ध्वनितं भवति। तदेवं व्याकरणच्युतिपरिहाराय व्याकरणस्याध्ययनं नितरामावश्यकम्। नाऽवैय्याकरणः साधुशब्दप्रयोगे क्षमः, पद्यमिदमित्यपि च सूचयति। आलङ्कारिका अपि च्युतिसंस्कारत्वाख्यं काव्यदोषमाचक्षाणास्तत्परिहाराय व्याकरणाध्ययनस्यावश्यकत्वमपूपुषन्। आचार्यो वेङ्कटाध्वरोऽपि अमुमेवार्थं विशदयति स्वकीये पद्ये निम्नाङ्किते
Reviews
There are no reviews yet.